जगद्गुरुरामभद्राचार्यः (१९५०–), पूर्वाश्रमे गिरिधरमिश्राख्यः, आर्यवर्ते
उत्तरप्रदेशराज्यस्थचित्रकूटे निवसन्नेकः प्रख्यातविद्ववान् शिक्षाविद् रचनाकारः
प्रवचनकारः दार्शनिकः सनातनधर्मगुरुश्चास्ति। सः रामानन्दसम्प्रदायस्य
वर्तमानजगद्गुरुरामानन्दाचार्यचतुष्टये एकोऽस्ति, अस्मिन् पदे १९८८तमे ईसवीयाब्दे
प्रतिष्ठापितवांश्च। सः उत्तरप्रदेशराज्ये चित्रकूटस्थस्य तुलसीदासनामस्थापितस्य
श्रीतुलसीपीठ इत्यस्य धार्मिकसामाजिकसेवासंस्थानस्य संस्थापकोऽध्यक्षश्च। अपि च, सः
चित्रकूटस्थितस्य जगद्गुरुरामभद्राचार्यविकलाङ्गविश्वविद्यालयस्य संस्थापक
आजीवनकुलाधिपतिश्च। एषो विश्वविद्यालयः चतुर्विधविकलाङ्गविद्यार्थिभ्य एव
स्नातकस्नातकोत्तराश्च पाठ्यक्रमोपाधीः प्रददाति। जगद्गुरुरामभद्राचार्यः
मासद्वयाल्पायावेव नेत्रज्योतिरहितोऽभवत् – ततः प्रभृति प्रज्ञाचक्षुरेषः। अध्ययनाय
रचनायै वा तेन ब्रेललिपिः कदापि न प्रयुक्ता। बहुभाषाविदस्ति
द्वाविंशतिभाषासम्भाषणशौण्डः रामभद्राचार्यः। सः संस्कृतहिन्द्यवधीमैथिल्यादिभाषासु
आशुकविः रचनाकारश्च। तेन अशीत्यधिकाः ग्रन्थाः प्रणीताः, येषु चत्वारि महाकाव्यानि
(संस्कृते द्वे हिन्द्यां द्वे च), रामचरितमानसे हिन्दीटीका, अष्टाध्याय्यां
काव्यात्मकसंस्कृतटीका, प्रस्थानत्रयीसंस्कृतभाष्यानि च सम्मिलितानि। सः
तुलसीदाससाहित्यक्षेत्रे भारतस्य सर्वश्रेष्ठविशेषज्ञेषु गण्यते, रामचरितमानसस्य एकायाः
प्रामाणिकप्रत्याः सम्पादकश्च, एषा प्रतिः तुलसीपीठेन प्रकाशिता।
स्वामिरामभद्राचार्यः रामायणभागवतयोः सुप्रसिद्धकथाकारः वर्तते – भारतस्य
भिन्नभिन्ननगरेषु विदेशेषु च तस्य कथाकार्यक्रमाः नियमितरूपेणायुज्यन्ते
संस्कारटीवीसनातनटीवीत्यादिचैनलेषु प्रसार्यन्ते च। 
एतत् स्थाने इदानीं यावत् अधिक‌तराणां सद्स्यानां संस्कृतभाषाज्ञानं परिमितम् अस्ति। परन्तु
मध्यमस्तरीय संस्कृतज्ञाने सति अपि भवान् योगदानं ददातु इति निवेदनम् अस्ति, यस्मात्
अभ्यासेन एव ज्ञानं वर्धते। भवान् अत्र पूर्वेक्रियाशीलानां सदस्यानां सहाय्यमपि गृहीतुं
शक्नोति। धन्यवादाः।
संस्कृतभाषायाः विकिपीडियां प्रति स्वागतम्। विकिपीडिया नाम बहुभाषासु एका
स्वतन्त्र-विश्वविज्ञानकोश परियोजना अस्ति। अस्य सम्पादनं भवद्भिः स्वयमेव कर्तुं शक्यते।
सम्पादनविषये साहाय्यार्थं साहाय्य-लेखनं पश्यतु। टंकणं (मुद्रलेखनं) कर्तुं उपयुक्ता सूचना अत्र
अस्ति। अस्माभि: एतावत् ६,०५४ लेखानां प्रकाशनं संस्कृतविश्वकोशेऽस्मिन् कृतम्॥
अयं स यस्य शर्मन्नवोभिरग्नेरेधते जरिताभिष्टौ ।
ज्येष्ठेभिर्यो भानुभिरृषूणां पर्येति परिवीतो विभावा ॥१॥ यो भानुभिर्विभावा
विभात्यग्निर्देवेभिरृतावाजस्रः । आ यो विवाय सख्या सखिभ्योऽपरिह्वृतो अत्यो न सप्तिः
॥२॥ ईशे यो विश्वस्या देववीतेरीशे विश्वायुरुषसो व्युष्टौ । आ यस्मिन्मना
हवींष्यग्नावरिष्टरथ स्कभ्नाति शूषैः ॥३॥ शूषेभिर्वृधो जुषाणो अर्कैर्देवाँ अच्छा रघुपत्वा
जिगाति । मन्द्रो होता स जुह्वा यजिष्ठः सम्मिश्लो अग्निरा जिघर्ति देवान् ॥४॥
तमुस्रामिन्द्रं न रेजमानमग्निं गीर्भिर्नमोभिरा कृणुध्वम् । आ यं विप्रासो मतिभिर्गृणन्ति
जातवेदसं जुह्वं सहानाम् ॥५॥ सं यस्मिन्विश्वा वसूनि जग्मुर्वाजे नाश्वाः सप्तीवन्त एवैः ।
अस्मे ऊतीरिन्द्रवाततमा अर्वाचीना अग्न आ कृणुष्व ॥६॥ अधा ह्यग्ने मह्ना निषद्या सद्यो
जज्ञानो हव्यो बभूथ । तं ते देवासो अनु केतमायन्नधावर्धन्त प्रथमास ऊमाः ॥७॥
एतत् पृष्ठस्य अन्तिमपरिवर्तनं १९ सप्तम्बर् २०११ दिवसे १२:१५ वादने कृतम्
